laxmanshastri-blog
laxmanshastri-blog
Pt. Laxman Shastri
2 posts
Contact for all types of religious work like, worship, havan, chanting etc.(+91- 8178567250 / 9540857525)
Don't wanna be here? Send us removal request.
laxmanshastri-blog · 4 years ago
Photo
Tumblr media
                                          श्रीगणपत्यथर्वशीर्षम्
।। ॐ भद्रङ्कर्णेभिः इति शान्तिः ।।
हरिः ॐ ।। नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्��्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् । ऋतं वच्मि । सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अव चोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वरात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञनमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि । त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्नि स्त्वंवायुस्त्वंसूर्यस्त्वंचन्द्रमास्त्वंब्रह्म भूर्भुवः स्वरोम् । गणादिं पूर्वमच्चार्य वर्णादिं तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्य रूपम् । बिन्दुरुत्तर रूपम् । नादः सन्धानम् । संहिता सन्धिः । सैषा गणेश विद्या । गणक ऋषिः निचृद्गायत्री छन्दः । श्रीमहागणपतिर्देवता । ॐ गं गणपतये नमः । एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ।। एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । ऋदं च वरदं हस्तैर्ब्रिभ्राणं मूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्त गन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् । भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । एवं ध्यायति यो नित्यं स योगी योगिनां वरः । नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ।।                                       ।। इति श्रीगणपत्यथर्वशीर्षम् ।।
0 notes
laxmanshastri-blog · 4 years ago
Text
Tumblr media
1 note · View note