Tumgik
#मणिपुरचक्र
Video
youtube
मूलाधार चक्र में छिपी असीम ऊर्जा को करें जागृत, कुंडलिनी जागरण रहस्य
1 note · View note
mohnish15 · 6 years
Text
चैत्र नवरात्रि विशेष- नवदुर्गा स्तुति
Tumblr media
१. शैलपुत्री ध्यानं वन्दे वाञ्च्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥ पूर्णेन्दुनिभाङ्गौरीं मूलाधारस्थितां प्रथमदुर्गां त्रिनेत्राम् । पटाम्बरपरिधानां रत्नकिरीटां नानालङ्कारभूषिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् । कमनीयां लावण्यस्नेहमुखीं क्षीणमध्यां नितम्बनीम् ॥ स्तोत्रम् प्रथमदुर्गा त्वं हि भवसागरतारिणी । धन ऐश्वर्यदायिनी शैलपुत्री प्रणमाम्यहम् ॥ त्रिलोकजननी त्वं हि परमानन्दप्रदायिनी । सौभाग्यारोग्यदायनी शैलपुत्री प्रणमाम्यहम् ॥ चराचरेश्वरी त्वं हि महामोहविनाशिनी । भुक्तिमुक्तिदायनी शैलपुत्री प्रणमाम्यहम् ॥ कवचम् - ओङ्कारः मे शिरः पातु मूलाधारनिवासिनी । ह्रीङ्कारः पातु ललाटे बीजरूपा महेश्वरी ॥ श्रीकारः पातु वदने लज्जारूपा महेश्वरी । हूङ्कारः पातु हृदये तारिणी शक्तिः स्वधृता ॥ फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा । २. ब्रह्मचारिणी (स्वाधिष्ठानचक्र) दधाना करपद्माभ्यामक्षमालाकमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ ध्यानं - वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । जपमालाकमण्डलुधरां ब्रह्मचारिणीं शुभाम् । गौरवर्णां स्वाधिष्ठानस्थितां द्वितीयदुर्गां त्रिनेत्राम् । धवलवर्णां ब्रह्मरूपां पुष्पालङ्कारभूषिताम् । पद्मवदनां पल्लवाधरां कान्तङ्कपोलां पीनपयोधराम् । कमनीयां लावण्यां स्मेरमुखीं निम्ननाभिं नितम्बनीम् ॥ स्तोत्रं - तपश्चारिणी त्वं हि तापत्रयनिवारिणी । ब्रह्मरूपधरां ब्रह्मचारिणीं प्रणमाम्यहम् ॥ नवचक्रभेदिनी त्वं हि नव ऐश्वर्यप्रदायिनी । धनदां सुखदां ब्रह्मचारिणीं प्रणमाम्यहम् ॥ शङ्करप्रिया त्वं हि भुक्ति-मुक्तिदायिनी । शान्तिदां मानदां ब्रह्मचारिणीं प्रणमाम्यहम् । कवचम् - त्रिपुरा मे हृदयं पातु ललाटं पातु शङ्करभामिनी अर्पणा सदा पातु नेत्रौ अधरौ च कपोलौ ॥ पञ्चदशी कण्ठं पातु मध्यदेशं पातु माहेश्वरी षोडशी सदा पातु नभो गृहो च पादयो । अङ्गप्रत्यङ्गं सततं पातु ब्रह्मचारिणी ॥ ३. चन्द्रघण्टा -(मणिपुरचक्र) पिण्डजप्रवरारूढा चन्द्रकोपास्त्रकैर्युता । प्रसादं तनुतां मह्यं चन्द्रघण्टेति विश्रुता ॥ ध्यानं - वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । सिंहारूढां दशभुजाञ्चन्द्रघण्टां यशस्वनीम् ॥ कञ्जनाभां मणिपुरस्थितां तृतीयदुर्गां त्रिनेत्राम् । खड्गगदात्रिशूलचापधरां पद्मकमण्डलुमालावराभयकराम् । पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् । मञ्जीर-हार-केयूर-किङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रफुल्लवन्दनां बिम्बाधारां कान्तङ्कपोलां तुङ्गकुचाम् । कमनीयां लावण्यां क्षीणकटिं नितम्बनीम् ॥ स्त्रोत्रः- आपदुद्धारिणी त्वं हि आद्याशक्तिः शुभा परा । अणिमादिसिद्धिदात्रि चन्द्रघण्टे प्रणमाम्यहम् ॥ चन्द्रमुखी इष्टदात्री इष्टमन्त्रस्वरूपणी । धनदात्र्यानन्ददात्री चन्द्रघण्टे प्रणमाम्यहम् ॥ नानारूपधारिणी इच्छामयी ऐश्वर्यदायनी । सौभाग्यारोग्यदायनी चन्द्रघण्टे प्रणमाम्यहम् ॥ कवचः- रहस्यं शृणु वक्ष्यामि शैवेशि कमलानने । श्रीचन्द्रघण्टाकवचं सर्वसिद्धिप्रदायकम् ॥ विना न्यासं विना विनियोगं विना शापोद्धारं विना होमम् । स्नानं शौचादिकं नास्ति श्रद्धामात्रेण सिद्धिदम् ॥ कुशिष्याय कुटिलाय वञ्चका��� निन्दाकाय च । न दातव्यं न दातव्यं न दातव्यङ्कदाचन ॥ ४. कूष्माण्डा (अनाहतचक्र) सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे ॥ ध्यानं - वन्दे वाञ्छितकामर्थं चन्द्रार्धकृतशेखराम् । सिंहारूढामष्टभुजां कुष्माण्डां च यशस्विनीम् ॥ भास्वरां भानुनिभामनाहतस्थितां चतुर्थदुर्गां त्रिनेत्राम् । कमण्डलुचापबाणपद्मसुधाकलशचक्रगदाजपवटीधराम् ॥ पटाम्बरपरिधानां कमनीयां मृदुहास्या नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् । प्रफुल्लवदनां चारुचिबुकां कान्तकपोलां तुङ्गकुचाम् । कोलाङ्गीं स्मेरमुखीं क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥ स्त्रोत्रः- दुर्गतिनाशिनी त्वं हि दारिद्र्यादिविनाशिनी । जयदा धनदा कूष्माण्डे प्रणमाम्यहम् ॥ जगन्माता जगत्कर्त्रि जगदाधाररूपिणी । चराचरेश्वरी कूष्माण्डे प्रणमाम्यहम् ॥ त्रैलोक्यसुन्दरी त्वं हि दुःखशोकनिवारिणी । परमानन्दमयी कूष्माण्डे प्रणमाम्यहम् ॥ कवचं - हसरै मे शिरः पातु कूष्माण्डा भवनाशिनी । हसलकरी नेत्रऽथ, हसरौश्च ललाटकम् ॥ कौमारी पातु सर्वगात्रे वाराही उत्तरे तथा । पूर्वे पातु वैष्णवी इन्द्राणी दक्षिणे मम । दिग्दिक्षु सर्वत्रैव कूम्बीजं सर्वदाऽवतु ॥ ५. स्कन्दमाता (विशुद्धचक्र) सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥ ध्यानम् - वन्दे वाञ्छितकामार्थे चन्द्रार्धकृतशेखराम् । सिंहारूढा चतुर्भुजा स्कन्धमाता यशस्वनी ॥ धवलवर्णा विशुद्धचक्रस्थिता पञ्चमदुर्गा त्रिनेत्रा । अभयपद्मयुग्मकरां दक्षिण ऊरुपुत्रधरां भजेऽम् ॥ पटाम्बरपरिधाना मृदुहास्या नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलधारिणीम् ॥ प्रभुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् । कमनीयां लावण्यां चारूत्रिवलीं नितम्बनीम् ॥ स्तोत्रम् - नमामि स्कन्दमातरं स्कन्धधारिणीम् । समग्रतत्त्वसागरामपारपारगहराम् ॥ शशिप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् । ललाटरत्नभास्करां जगत्प्रदीप्तभास्कराम् ॥ महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् । सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥ अतर्क्यरोचिरूविजां विकार दोषवर्जिताम् । मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वमूचिताम् ॥ नानालङ्कारभूषितां मृगेन्द्रवाहनाग्रताम् । सुशुद्धतत्त्वतोषणां त्रिवेदमारभाषणाम् ॥ ??मार सुधार्मिकौपकारिणीं सुरेन्द्रवैरिघातिनीम् । शुभां सुपुष्पमालिनीं सुवर्णकल्पशाखिनीम् ॥ तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् । सहस्त्रसूर्यराजिकां धनञ्जयोग्रकारिकाम् ॥ सुशुद्धकालकन्दलां सुभृङ्गकृन्दमञ्जुलाम् । प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् ॥ स्वकर्मधारणे गतिं हरिं प्रयच्छ पार्वतीम् । ??प्रयच्छ अनन्तशक्तिकान्तिदां यशोऽथ भुक्तिमुक्तिदाम् ॥ पुनःपुनर्जगद्धितां नमाम्यहं सुरार्चिताम् । जयेश्वरि त्रिलाचने प्रसीद देवि पाहि माम् ॥ कवचम् - ऐं बीजालिका देवी पदयुग्मधरा परा । हृदयं पातु सा देवी कार्तिकेययुता सती ॥ श्रीं ह्रीं हुं ऐं देवी पूर्वस्यां पातु सर्वदा । सर्वाङ्ग में सदा पातु स्कन्दमाता पुत्रप्रदा ॥ वाणवाणामृते हुं फट् बीजससमन्विता । उत्तरस्यां तथाग्ने च वारूणे नैॠतेऽवतु ॥ इन्द्राणी भैरवी चैवासिताङ्गी च संहारिणी । सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ॥ ६. कात्यायनी (आज्ञाचक्र) चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी च शुभदा देवी दानवघातिनी ॥ ध्यानम् - वन्दे वाञ्छितमनोरथार्थाय चन्द्रार्धकृतशेखराम् । सिंहारूढां चतुर्भुजां कात्यायनीं यशस्वनीम् ॥ स्वर्णवर्णामाज्ञाचक्रस्थितां षष्ठदुर्गां त्रिनेत्राम् । वराभीतकरां सगपदधरां कात्यायनसुतां भजामि ॥ पटाम्बरपरिधानां स्मेरमुखीं नानालङ्कारभूषिताम् । मञ्जीरहारकेयुरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रसन्नवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् । कमनीयां लावण्यां त्रिवलीविभूषितनिम्ननाभिम् ॥ स्तोत्रम् - काञ्चनाभां वराभयपद्मधरां मुकुटोज्ज्वलां । स्मेरमुखीं शिवपत्नीं कात्यायनसुते नमोऽस्तुते ॥ पटाम्बरपरिधानां नानालङ्कारभूषितां । सिंहास्थितां पद्महस्तां कात्यायनसुते नमोऽस्तुते ॥ परमानन्दमयी देवि परब्रह्म परमात्मा । परमशक्ति,परमभक्ति, कात्यायनसुते नमोऽस्तुते ॥ विश्वकर्त्रीं,विश्वभर्त्रीं,विश्वहर्त्रीं,विश्वप्रीताम् । विश्वचित्तां,विश्वातीतां कात्यायनसुते नमोऽस्तुते ॥ कां बीजा, कां जपानन्दा कां बीजजपतोषिता । कां कां बीजजपासक्तां कां कां सन्तुता ॥ ?? कां बीजजपसंस्तुताम् काङ्कारहर्षिणीं कां कां धनदां धनमानसाम् । कां बीजजपकारिणीं कां बीजतपमानसाम् ॥ कां कारिणीं कां सूत्रपूजितां कां बीजधारिणीम् । कां कीं कूं कैं कौं कः ठः छः स्वाहारूपणी ॥ कवचम् - कात्यायनी मुखं पातु कां कां स्वाहास्वरूपणी । ललाटं विजया पातु मालिनी नित्यसुन्दरी ॥ कल्याणी हृदयं पातु जया च भगमालिनी ॥ ७. कालरात्रि (भानु चक्र) एकवेणीजपाकर्णपुरानना खरास्थिता । लम्बोष्ठीकर्णिकाकर्णीतैलाभ्यङ्गशरीरिणी ॥ वामपादोल्लसल्लोहलताकण्टकभूषणा । वर्धनामूर्धजा कृष्णा कालरात्रिर्भयङ्करी ॥ ध्यानम् - करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालरात्रिं करालीं च विद्युन्मालाविभूषिताम् ॥ दिव्यलौहवज्रखड्गवामाधोर्ध्वकराम्बुजाम् । अभयं वरदां चैव दक्षिणोर्ध्वाधः पाणिकाम् ॥ महामेघप्रभां श्यामां तथा च गर्दभारूढाम् । घोरदंष्ट्राकारालास्यां पीनोन्नतपयोधराम् ॥ सुखप्रसन्नवदनां स्मेराननसरोरुहाम् । एवं सञ्चियन्तयेत्कालरात्रिं सर्वकामसमृद्धिदाम् ॥ स्तोत्रम् - ह्रीं कालरात्रिः श्रीं कराली च क्लीं कल्याणी कलावती । कालमाता कलिदर्पघ्नी कपदींशकृपन्विता ॥ कामबीजजपानन्दा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनाऽऽर्तिनशिनी कुलकामिनी ॥ क्लीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी । कृपामयी कृपाधारा कृपापारा कृपागमा ॥ कवचम् - ॐ क्लीं मे हृदयं पातु पादौ श्रीं कालरात्रिः । ललाटं सततं पातु दुष्टग्रहनिवारिणी ॥ रसनां पातु कौमारी भैरवी चक्षुषी मम । कटौ पृष्ठे महेशानी कर्णौ शङ्करभामिनी । वर्जितानि तु स्थानानि यानि च कवचेन हि । तानि सर्वाणि मे देवी सततं पातु स्तम्भिनी ॥ ८. महागौरी (सोमचक्र) श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः । महागौरी शुभं दद्यान्महादेवप्रमोददा ॥ ॐ नमो भगवति महागौरि वृषारूढे श्रीं ह्रीं क्लीं हुं फट् स्वाहा । (भगवती महागौरी वृषभ के पीठ पर विराजमान हैं, जिनके मस्तक पर चन्द्र का मुकुट है । मणिकान्तिमणि के समान कान्ति वाली अपनी चार भुजाओं में शङ्ख, चक्र, धनुष और बाण धारण किए हुए हैं, जिनके कानों में रत्नजडित कुण्डल झिलमिलाते हैं, ऐसी भगवती महागौरी हैं।) ध्यान- वन्दे वाञ्छितकामार्थं चन्द्रार्धकृतशेखराम् । सिंहारूढां चतुर्भुजां महागौरीं यशस्वीनीम् ॥ पुर्णेन्दुनिभां गौरीं सोमवक्रस्थिआतां अष्टमदुर्गां त्रिनेत्राम् । वराभीतिकरां त्रिशूलडमरूधरां महागौरीं भजेऽहम् ॥ पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां त्रैलोक्यमोहनीम् । कमनीयां लावण्यां मृण���लां चन्दनगन्धलिप्ताम् ॥ स्तोत्रम् - सर्वसङ्कटहन्त्री त्वं धनैश्वर्यप्रदायनी । ज्ञानदा चतुर्वेदमयी महागौरीं प्रण��ाम्यहम् ॥ सुखशान्तिदात्रीं, धनधान्यप्रदायनीम् । डमरूवादनप्रियां महागौरीं प्रणमाम्यहम् ॥ त्रैलोक्यमङ्गला त्वं हि तापत्रयविनाशिनीं प्रणमाम्यहम् । वरदा चैतन्यमयी महागौरीं प्रणमाम्यहम् ॥ कवचम् - ओङ्कारः पातु शीर्षे मां, ह्रीं बीजं मां हृदये । क्लीं बीजं सदा पातु नभो गृहो च पादयोः ॥ ललाटकर्णौ हूं बीजं पातु महागौरी मां नेत्रघ्राणौ । कपोलचिबुकौ फट् पातु स्वाहा मां सर्ववदनौ ॥ ९. सिद्धिदात्री (निर्वाणचक्र) सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥ ध्यानम् - वन्दे वाञ्छितमनोरथार्थं चन्द्रार्धकृतशेखराम् । कमलस्थितां चतुर्भुजां सिद्धिदां यशस्वनीम् ॥ स्वर्णवर्णनिर्वाणचक्रस्थितां नवमदुर्गां त्रिनेत्राम् । शङ्खचक्रगदा पद्मधरां सिद्धिदात्रीं भजेऽहम् ॥ पटाम्बरपरिधानां सुहास्यां नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् । कमनीयां लावण्यां क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥ स्तोत्रम् - कञ्जनाभां शङ्खचक्रगदाधरां मुकुटोज्ज्वलाम् । स्मेरमुखि शिवपत्नि सिद्धिदात्रि नमोऽस्तु ते ॥ पटाम्बरपरिधानां नानालङ्कारभूषिताम् । नलिनस्थिता नलिनाक्षी सिद्धिदात्री नमोऽस्तु ते ॥ परमानन्दमयी देवी परब्रह्म परमात्मा । परमशक्ति परमभक्ति सिद्धिदात्री नमोऽस्तु ते ॥ विश्वकर्त्री विश्वभर्त्री विश्वहर्त्री विश्वप्रीता । विश्वार्चिता विश्वातीता सिद्धिदात्री नमोऽस्तु ते ॥ भुक्तिमुक्तिकारणी भक्तकष्टनिवारिणी । भवसागरतारिणी सिद्धिदात्री नमोऽस्तु ते ॥ धर्मार्थकामप्रदायिनी महामोहविनाशिनी । मोक्षदायिनी सिद्धिदात्री ऋद्धिदात्री नमोऽस्तु ते ॥ कवचम् - ओङ्कारः पातु शीर्षे मां, ऐं बीजं मां हृदये । ह्रीं बीजं सदा पातु नभो गृहो च पादयोः ॥ ललाटकर्णौ श्रीं बीजं पातु क्लीं बीजं मां नेत्रघ्राणौ । कपोलचिबुकौ हसौः पातु जगत्प्रसूत्यै मां सर्ववदने 
via Blogger http://ift.tt/2FHJOkx
0 notes
Video
youtube
जानिए कुंडलिनी जागरण रहस्य, सात चक्रों में छिपी असीम ऊर्जा को करें जागृत
1 note · View note